(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.83. अध्यायः 083
Mahabharata - Vana Parva - Chapter Topics
नारदेन युधिष्ठिरंप्रति भीष्माय पुलस्त्योदिततीर्थमहिमानुवादपूर्वकमिष्टदेशगमनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text

पुलस्त्य उवाच। 3-83-0x(1990)(19448)
अथ सन्ध्यां समासाद्य संवेद्ये तीर्थ उत्तमे।
उपस्पृश्य नरो विद्यां लभते नात्र संशयः ॥ 3-83-1(19449)
रामस्य च प्रसादेन तीर्थं राजन्कृतं पुरा।
तल्लौहित्यं समासाद्य विन्द्याद्बहु सुवर्णकम् ॥ 3-83-2(19450)
करतोयां समासाद्य त्रिरात्रोपोषितो नरः।
अश्वमेधमवाप्नोति प्रजापतिकृतो विधिः ॥ 3-83-3(19451)
गङ्गायास्तत्र राजेन्द्र सागरस्य च सङ्गमे।
अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः ॥ 3-83-4(19452)
गङ्गायास्त्वपरं पारं प्राप्य यः स्नाति मानवः।
त्रिरात्रमुषितो राजन्सर्वान्कामानवाप्नुयात् ॥ 3-83-5(19453)
ततो वैतरणीं गत्वा सर्वपापप्रमोचनीम्।
विरजातीर्थमासाद्य विराजति यथा शशी ॥ 3-83-6(19454)
प्रभवेच्च कुले पुण्ये सर्वपापं व्यपोहति।
गोसहस्रफंल लब्ध्वा रपुनाति स्वकुलं नरः ॥ 3-83-7(19455)
शोणस्य ज्योतिरथ्यायाः संगमे नियतः शुचिः।
तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत् ॥ 3-83-8(19456)
शोणस्य नर्मदायाश् प्रभेदे कुरुनन्दन।
वंशगुल्म उपस्पृश्य वाचजिमेधफलं लभेत् ॥ 3-83-9(19457)
वाजपेयमवाप्नोति त्रिरात्रोपोषितो नरः।
गोसहस्रफलं विन्द्यात्कुलं चैव समुद्धरेत् ॥ 3-83-10(19458)
कोसलां तु समासाद्य कालतीर्थमुपस्पृशेत्।
वृषभैकादशफलं लभते नात्र संशयः ॥ 3-83-11(19459)
पुष्पवत्यामुपस्पृश्य त्रिरात्रोपोषितो नरः।
गोसहस्रफलं लब्ध्वा पुनाति स्वकुलं नृप ॥ 3-83-12(19460)
ततो बदरिकातीर्थे स्नात्वा भरतसत्तम।
दीर्घमायुरवाप्नोति स्वर्गलोकं च गच्छति ॥ 3-83-13(19461)
तथा चम्पां समासाद्य भागीरथ्यां कृतोदकः।
दण्डाख्यमभिगम्यैव गोसहस्रफलं लभेत् ॥ 3-83-14(19462)
लपेटिकां ततो गच्छेत्पुण्यां पुण्योपशोभिताम्।
वाजपेयमवाप्नोति देवैः सर्वैश्च पूज्यते ॥ 3-83-15(19463)
ततो महेन्द्रमासाद्य जामदग्न्यनिपेवितम्।
रामतीर्थे नरः स्नात्वा वाजिमेधफलं लभेत् ॥ 3-83-16(19464)
मतङ्गस्य तु केदारस्तत्रैव कुरुनन्दन।
तत्र स्नात्वा कुरुश्रेष्ठ गोसहस्रफलं लभेत् ॥ 3-83-17(19465)
श्रीपर्वतं समासाद्य नदीतीरमुपस्पृशेत्।
रअश्वमेधमवाप्नोति पूजयित्वा वृषध्वजम् ॥ 3-83-18(19466)
श्रीपर्वते महादेवो देव्या सह महाद्युतिः।
न्यवसत्परमप्रीतो ब्रह्मा च त्रिदशैः सह ॥ 3-83-19(19467)
तत्र देवह्रदे स्नात्वा शुचिः प्रयतमानसः।
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ॥ 3-83-20(19468)
ऋषभं पर्वतं गत्वा पाण्ड्येषु नृपपूजितम्।
वाजपेयमवाप्नोति नाकपृष्ठे च मोदते ॥ 3-83-21(19469)
ततो गच्छेत कावेरीं वृतामप्सरसां गणैः।
तत्रस्नात्वा नरो राजन्गोसहस्रफलं लभेत् ॥ 3-83-22(19470)
ततस्तीरे समुद्रस्य कन्यातीर्थमुपस्पृशेत्।
तत्तोयं स्पृश्य राजेन्द्र सर्वपापैः प्रमुच्यते ॥ 3-83-23(19471)
अथ गोकर्णमासाद्य त्रिषु लोकेषु विश्रुतम्।
समुद्रमध्ये राजेन्द्र सर्वलोकनमस्कृतम् ॥ 3-83-24(19472)
रयत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः।
भूतयक्षपिशाचाश्च किन्नराः समहोरगाः ॥ 3-83-25(19473)
सिद्धचारणगन्धर्वमानुषाः पन्नगास्तथा।
सरितः सागराः शैला उपासन्त उमापतिम् ॥ 3-83-26(19474)
तत्रेशानं समभ्यर्च्य त्रिरात्रोपोषितो नरः।
अश्वमेधमवाप्नोति गाणपत्यं च विन्दति ॥ 3-83-27(19475)
उष्य द्वादशरात्रं तु पूतात्मा च भवेन्नरः ॥ 3-83-28(19476)
तत एव च गायत्र्याः स्थानं त्रैलोक्यपूजितम्।
त्रिरात्रमुषितस्तत्र गोसहस्रफलं लभेत्।
निदर्शनं च प्रत्यक्षं ब्राह्मणानां नराधिप ॥ 3-83-29(19477)
गायत्रीं पठते यस्तु योनिसंकरजस्तथा।
गाथा च गाथिका चापि तस्य संपद्यते नृप ॥ 3-83-30(19478)
अब्राह्मणस्य सावित्रीं पठतस्तु प्रणश्यति ॥ 3-83-31(19479)
संवर्तस्य तु विप्रर्षेर्वापीमासाद्य दुर्लभाम्।
रूपस्य भागी भवति सुभगश्च प्रजायते ॥ 3-83-32(19480)
ततो वेणां समासाद्य त्रिरात्रोपोषितो नरः।
मयूरहंससंयुक्तं विमानं लभते नरः ॥ 3-83-33(19481)
ततो गोदावरीं प्राप्य नित्यं सिद्धनिषेविताम्।
गवां मेधमवाप्नोति वासुकेर्लोकमुत्तमम् ॥ 3-83-34(19482)
वेणायाः संगमे स्नात्वा वाजिमेधफलं लभेत्।
वरदासंगमे स्नात्वा गोसहस्रफलं लभेत् ॥ 3-83-35(19483)
ब्रह्मस्थानं समासाद्य त्रिरात्रोपोषितो नरः।
गोसहस्रफलं विन्द्यात्स्वर्गलोकं च गच्छति ॥ 3-83-36(19484)
कुशप्लवनमासाद्य ब्रह्मचारी समाहितः।
त्रिरात्रमुषितः स्नात्वा अश्वमेधफंल लभेत् ॥ 3-83-37(19485)
ततो देवह्रदेऽरण्ये कृष्णवेणाजलोद्भवे।
जातिस्मरह्रदे स्नात्वा भवेज्जातिस्मरो नरः।
यत्र क्रतुशतैरिष्ट्वा देवराजो दिवं गतः ॥ 3-83-38(19486)
अग्निष्टोमफलं विन्द्याद्गमनादेव भारत।
ततः सर्वह्रदे स्नात्वा गोसहस्रफलं लभेत् ॥ 3-83-39(19487)
ततो वापीं महापुण्यां पयोष्णीं सरितां वराम्।
पितृदेवार्चनरतो गोसहस्रफलं लभेत् ॥ 3-83-40(19488)
दण्डकारण्यमासाद्य पुण्यं राजन्नुपस्पृशेत्।
गोसहस्रफलं तस्य स्नातमात्रस्य भारत ॥ 3-83-41(19489)
शरभङ्गाश्रमं गत्वा शुकस्य च महात्मनः।
न दुर्गतिमवाप्नोति पुनाति च कुलं नरः ॥ 3-83-42(19490)
ततः शूर्पारकं गच्छेज्जामदग्न्यनिषेवितम्।
रामतीर्थे नरः स्नात्वा विन्द्याद्बहु सुवर्णकम् ॥ 3-83-43(19491)
सप्तगोदावरे स्नात्वा नियतो नियताशनः।
महत्पुण्यमवाप्नोति देवलोकं च गच्छति ॥ 3-83-44(19492)
ततो देवपथं गत्वा नियतो नियताशनः।
देवसत्रस्य यत्पुण्यं तदेवाप्नोति मानवः ॥ 3-83-45(19493)
तुङ्गकारण्यमासाद्य ब्र्हमचारी जितेन्द्रियः।
वेदानध्यापयत्तत्र ऋषिः सारस्वतः पुरा ॥ 3-83-46(19494)
तत्र वेदेषु नष्टेषु मुनेरङ्गिरसः सुतः।
ऋषीणआमुत्तरीयेषु सूपविष्टो यथासुखम् ॥ 3-83-47(19495)
ओंकारेण यथान्यायं सम्यगुच्चारितेन ह।
येन यत्पूर्वमभ्यस्तं तत्सर्वं समुपस्थितम् ॥ 3-83-48(19496)
ऋषयस्तत्र देवाश्च वरुणोऽग्निः प्रजापतिः।
हरिर्नारायणस्तत्र महादेवस्तथैव च ॥ 3-83-49(19497)
पितामहश्च भगवान्देवैः सह महाद्युतिः।
भृगुं नियोजयामास याजनार्थे महाद्युतिम् ॥ 3-83-50(19498)
ततः स चक्रे भगवानृषीणां विधिवत्तदा।
सर्वेषां पुनराधानं विधिदृष्टेन कर्मणा ॥ 3-83-51(19499)
आज्यभागेन तत्राग्नीं तर्पयित्वा यथाविधि।
देवाः स्वभवनं याता ऋषयश्च यथाक्रमम् ॥ 3-83-52(19500)
तदरण्यं प्रविष्टस्य तुङ्गकं राजसत्तम।
पापं प्रणश्यत्यखिलं स्त्रिया वा पुरुषस्य वा ॥ 3-83-53(19501)
तत्रमासं वसेद्धीरो नियतो नियताशनः।
ब्रह्मलोकं व्रजेद्राजन्कुलं चैव समुद्धरेत् ॥ 3-83-54(19502)
मेधाविकं समासाद्य पितॄन्देवांश्च तर्पयेत्।
अग्निष्टोममवाप्नोति स्मृतिं मेधां च विन्दति ॥ 3-83-55(19503)
अत्र कालञ्चरं गत्वा पर्वतं लोकविश्रुतम्।
तत्र देवह्रदे स्नात्वा गोसहस्रफलं लभेत् ॥ 3-83-56(19504)
आत्मानं स्नापयेत्तत्रगिरौ कालञ्जरे नृप।
स्वर्गलोके महीयेत नरो नास्त्यत्र संशयः ॥ 3-83-57(19505)
ततो गिरिवरश्रेष्ठे चित्रकूटे विशांपते।
मन्दाकिनीं समासाद्य सर्वपापप्रणाशिनीम् ॥ 3-83-58(19506)
तत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः।
अश्वमेधमवाप्नोति गतिं च परमां व्रजेत् ॥ 3-83-59(19507)
ततो गच्छेत धर्मज्ञ भर्तृस्थानमनुत्तमम्।
यत्र नित्यं महासेनो गुहः सन्निहितो नृप ॥ 3-83-60(19508)
तत्र गत्वा नृपश्रेष्ठ गमनादेव सिध्यति।
कोटितीर्थे नरः स्नात्वा गोसहस्रफलं लभेत् ॥ 3-83-61(19509)
प्रदक्षिणमुपावृत्य ज्येष्ठस्थानं व्रजेन्नरः।
अभिगम्य महादेवं विराजति यथा शशी ॥ 3-83-62(19510)
तत्र कूपे महाराज विश्रुता भरतर्षभ।
समुद्रास्तत्र चत्वारो निवसन्ति युधिष्ठिर ॥ 3-83-63(19511)
तत्रोपस्पृश्य राजेन्द्र पितृदेवार्चने रतः।
नियतात्मा नरः पूतो गच्छेत परमां गतिम् ॥ 3-83-64(19512)
ततो गच्छेत राजेन्द्र शृङ्गबेरपुरं महत्।
यत्रतीर्णो महाराज रामो दाशरथिः पुरा ॥ 3-83-65(19513)
रकतस्मिंस्तीर्थे महाबाहो स्नात्वा पापैः प्रमुच्यते।
गङ्गायां तु नरः स्नात्वा ब्रह्मचारी समाहितः ॥ 3-83-66(19514)
विधूतपाप्मा भवति वाजपेयं च विन्दति।
ततो मुञ्जवटं गच्छेत्स्थानं देवस्य धीमतः ॥ 3-83-67(19515)
अभिगम्य महादेवमभिवाद्य च भारत।
प्रदक्षिणमुपावृत् यगाणपत्यमवाप्नुयात् ॥ 3-83-68(19516)
तस्मिंस्तीर्थे तु जाह्नव्यां स्नात्वा पापैः प्रमुच्यते।
ततो गच्छेत राजेन्द्र प्रयागमृषिसंस्तुतम् ॥ 3-83-69(19517)
यत्र ब्रह्मादयो देवा दिशश्च सदिगीश्वराः।
लोकपालाश्च साध्याश्च पितरो लोकसंमताः ॥ 3-83-70(19518)
सनत्कुमारप्रमुखास्तथैव परमर्षयः।
अङ्गिरःप्रमुखाश्चैव तथा ब्रह्मर्षयोऽमलाः ॥ 3-83-71(19519)
तथा नागाः सुपर्णश्च सिद्धाश्चक्रचरास्तथा।
सरितः सागराश्चैव गन्धर्वाप्सरसोऽपि च ॥ 3-83-72(19520)
हरिश्च भगवानास्ते प्रजापतिपुरस्कृतः।
तत्र त्रीण्यग्निकुण्डानि येषां मध्येन जाह्नवी ॥ 3-83-73(19521)
प्रयागादभिनिष्क्रान्ता सर्वतीर्थपुरस्कृता।
तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता ॥ 3-83-74(19522)
यमुना गङ्गया सार्धं संगता लोकपावनी।
गङ्गायमुनयोर्मध्यं पृथिव्या जघनं स्मृतम् ॥ 3-83-75(19523)
प्रयागं जघनस्थानमुपस्थमृषयो विदुः।
प्रयागं सप्रतिष्ठानं कम्बलाश्वतरौ तथा ॥ 3-83-76(19524)
तीर्थं भोगवती चैव वेदिरेषा प्रजापतेः।
तत्रवेदाश्च यज्ञाश्च मूर्तिमन्तो युधिष्ठिर ॥ 3-83-77(19525)
प्रजापतिमुपासन्ते ऋषयश्च तपोधनाः।
यजन्ते क्रतुभिर्देवास्तथा चक्रधरा नृपाः ॥ 3-83-78(19526)
ततः पुण्यतमं नाम त्रिषु लोकेषु भारत।
प्रयागं सर्वतीर्थेभ्यः प्रवदन्त्यधिकं विभो ॥ 3-83-79(19527)
श्रवणात्तस्य तीर्थस् नामसंकीर्तनादपि।
मृत्युकालभयाच्चापि नरः पापात्प्रमुच्यते ॥ 3-83-80(19528)
तत्राभिषेकं यः कुर्यात्संगमे लोकविश्रुते।
पुण्यं स फलमाप्नोति राजसूयाश्वमेधयोः ॥ 3-83-81(19529)
एषा यजनभूमिर्हि देवानामभिसंस्कृता।
तत्र रदत्तं सूक्ष्ममपि महद्भवति भारत ॥ 3-83-82(19530)
न वेदवचनात्तात न लोकवचनादपि।
मतिरुत्क्रमणीया ते प्रयागमरणं प्रति ॥ 3-83-83(19531)
दशतीर्तसहस्राणि षष्टिः कोट्यस्तथाऽपराः।
येषां सान्निध्यमत्रैव कीर्तितं कुरुन्दन ॥ 3-83-84(19532)
चतुर्विद्ये च यत्पुण्यं सत्यवादिषु चैव यत्।
स्नात एव तदाप्नोति गङ्गायमुनसंगमे ॥ 3-83-85(19533)
तत्र भोगवती नाम वासुकेस्तीर्थमुत्तमम्।
तत्राभिषेकं यः कुर्यात्सोऽश्वमेधफलं लभेत् ॥ 3-83-86(19534)
तत्र हंसप्रपतनं तीर्थं त्रैलोक्यविश्रुतम्।
दशाश्वमेधिकं चैव गङ्गायां कुरुनन्दन ॥ 3-83-87(19535)
कुरुक्षेत्रसमा गङ्गा यत्रतत्रावगाहिता।
विशेषो वै कनखले प्रयागे परमं महत् ॥ 3-83-88(19536)
यद्यकार्यशतं कृत्वा कृतंगङ्गावसेचनम्।
सर्वं तत्तस्य गङ्गापो दहत्यग्निरिवेन्धनम् ॥ 3-83-89(19537)
सर्वं कृतयुगे पुण्यंत्रेतायां पुष्करं स्मृतम्।
द्वापरेऽपि कुरुक्षेत्रं गङ्गा कलियुगे स्मृता ॥ 3-83-90(19538)
पुष्करे तु तपस्तप्येद्दानं दद्यान्महालये।
मलये त्वग्निमारोहेद्भृगुतुन्दे त्वनाशनम् ॥ 3-83-91(19539)
पुष्करे तु कुरुक्षेत्रे रगङ्गायां मगधेषु च।
स्नात्वा तारयते जन्तुः सप्तसप्तावरांस्तथा ॥ 3-83-92(19540)
पुनाति कीर्तिता पापं दृष्टा भद्रं प्रयच्छति।
अवगाढा च पीता च पुनात्यासप्तमं कुलम् ॥ 3-83-93(19541)
यावदस्थि मनुष्यस् गङ्गायाः स्पृशते जलम्।
तावत्स पुरुषो राजन्स्वर्गलोके महीपते ॥ 3-83-94(19542)
यथा पुण्यानि तीर्थानि पुण्यान्यायतनानि च।
उपास्य पुण्यं लब्ध्वा च भवत्यमरलोकभाक् ॥ 3-83-95(19543)
न गङ्गासदृशं तीर्थं न देवः केशवात्परः।
ब्राह्मणेभ्यः परं नास्ति एवमाह पितामहः ॥ 3-83-96(19544)
यत्र गङ्गा महाराज स देशस्तत्तपोकवनम्।
सिद्धिक्षेत्रं च तज्ज्ञेयं गङ्गातीरसमाश्रितम् ॥ 3-83-97(19545)
इदं सत्यंद्विजातीनां साधूनामात्मनोपि च।
सुहृदां च जपेत्कर्मे शिष्यस्यानुगतस्य च ॥ 3-83-98(19546)
इदं धन्यमिदं मेध्यमिदं स्वर्ग्यमिदं सुखम्।
इदं पुण्यमिदं रम्यं पावनं धर्म्यमुत्तमम् ॥ 3-83-99(19547)
महर्षीणामिदं गुह्यं सर्वपापप्रमोचनम्।
अधीत्यद्विजमध्ये च निर्मलः स्वर्गमाप्नुयात् ॥ 3-83-100(19548)
श्रीमत्स्वर्ग्यं तथा पुण्यं सपत्नशमनं शिवम्।
मेधाजननमग्र्यं वै तीर्थवंशानुकीर्तनम् ॥ 3-83-101(19549)
अपुत्रो लभते पुत्रमधनो धनमाप्नुयात्।
शूद्रो यथेप्सितान्कामान्ब्राह्मणः पारगः पठन्।
महीं विजयते राजा वैश्यो धनमवाप्नुयात् ॥ 3-83-102(19550)
यश्चेदं शृणुयान्नित्यं तीर्थपुण्यं नरः शुचिः।
जातीः स स्मरते बह्वीर्नाकपृष्ठे च मोदते ॥ 3-83-103(19551)
गम्यान्यपि च तीर्थानि कीर्तितान्यगमानि च।
मनसा तानि गच्छेत सर्वतीर्थसमीक्षया ॥ 3-83-104(19552)
एतानि वसुभिः साध्यैरादित्यैर्मरुदश्विभिः।
ऋषिभिर्देवकल्पैश्च स्नातानि सुकृतैषिभिः ॥ 3-83-105(19553)
एवं त्वमपि कौरव्य विधिनाऽनेन सुव्रत।
व्रत तीर्थानि नियतः पुण्यं पुण्येन वर्धयन् ॥ 3-83-106(19554)
भाषितैः करणैः पूर्वमास्तिक्याच्छ्रुतिदर्शनात्।
प्राप्यन्ते तानि तीर्तानि सद्भिः शास्त्रार्थदर्शिभिः।
सद्भिः शास्त्रार्थतत्वज्ञैर्ब्राह्मणैः सह गम्यताम् ॥ 3-83-107(19555)
नाव्रती नाकृतात्मा च नाशुचिर्न च तस्करः।
स्नाति तीर्थेषु कौरव्य न च वक्रमतिर्नरः ॥ 3-83-108(19556)
त्वया तु सम्यग्वृत्तेन नित्यं धर्मार्थदर्शिना।
`पितरस्तात सर्वे च तारिताः प्रपितामहाः' ॥ 3-83-109(19557)
पिता पितामहस्चैव सर्वे च प्रपितामहाः।
पितामहपुरोगाश्च देवाः सर्षिगणा नृप।
तव धर्मेण धर्मज्ञ नित्यमेवाभितोषितः ॥ 3-83-110(19558)
अवाप्स्यसि त्वं लोकान्वै वसूनां वासवोपम।
कीर्तिं च महातीं भीष्म प्राप्स्यसे भुविशाश्वतीं ॥ 3-83-111(19559)
नारद उवाच। 3-83-112x(1991)
एवमुक्त्वाऽभ्यनुज्ञाय पुलस्त्यो भगवानृषिः।
प्रीतः प्रीतेन मनसा तत्रैवान्तरधीयत ॥ 3-83-112(19560)
भीष्मश्च कुरुशार्दूल शास्त्रतत्त्वार्थदर्शिवान्।
पुलस्त्यवचनाच्चैव पृथिवीं परिचक्रमे ॥ 3-83-113(19561)
एवमेषा महाभागा प्रतिष्ठाने प्रतिष्ठिता।
तीर्थयात्रा महापुण्या सर्वपापप्रमोचनी ॥ 3-83-114(19562)
अनेन विधिना यस्तु पृथिवीं संचरिष्यति।
अश्वमेधशतं साग्रं फलं प्रेत्य स भोक्ष्यति ॥ 3-83-115(19563)
ततश्चाष्टगुणं पार्थ प्राप्स्यसे धर्ममुत्तमम्।
भीष्मः कुरूणां प्रवरो यथा पूर्वमवाप्तवान् ॥ 3-83-116(19564)
नेता च त्वमृषीन्यस्मात्तेन तेऽष्टगुणं फलम्।
रक्षोगणबिकीर्णानि तीर्थान्येतानि भारत।
अगम्यानि मनुष्येन्द्रैस्त्वामृते कुरुनन्दन ॥ 3-83-117(19565)
इदं देवर्षिचरितं सर्वतीर्ताभिसंवृतम्।
यः पठेच्छृणुयाद्वाऽपिसर्वपापैः प्रमुच्यते ॥ 3-83-118(19566)
ऋषिमुख्याः सदा यत्रवाल्मीकिस्त्वथ कश्यपः।
आत्रेयः कुण्डजठरो विश्वामित्रोऽथ गौतमः ॥ 3-83-119(19567)
असितो देवलश्चैव मार्कण्डेयोऽथ गालवः।
भरद्वाजो वसिष्ठश्च मुनिरुद्दालकस्तथा ॥ 3-83-120(19568)
शौनकः सह पुत्रेण व्यासश्च तपतांवरः।
दुर्वासाश्च मुनिश्रेष्ठो जाबालिश्च महातपाः ॥ 3-83-121(19569)
एते ऋषिवराः सर्वे त्वत्प्रतीक्षास्तपोधनाः।
एभिः सह महाराज तीर्थान्येतान्यनुव्रज ॥ 3-83-122(19570)
एष ते लोमशो नाम महर्षिरमितद्युतिः।
समेष्यति महाराज तेन सार्धमनुव्रज ॥ 3-83-123(19571)
मयाऽपिसह धर्मज्ञ तीर्थान्येतान्यनुक्रमात्। 3-83-b124 प्राप्स्यसे महतीं कीर्तिं यथा राजा महाभिषक् ॥ 3-83-124(19572)
यथा ययातिर्धर्मात्मा यथा राजा पुरूरवाः।
तथा त्वं कुरुशार्दूल स्वेन धर्मेण शोभसे ॥ 3-83-125(19573)
यथा भगीरथो राजा यथा रामश्च विश्रुतः।
तथा त्वं सर्वराजभ्यो भ्राजसे रश्मिवानिव ॥ 3-83-126(19574)
यथा मनुर्यथेक्ष्वाकुर्यथा पूरुर्महायशाः।
यथा वैन्यो महाराज तथा त्वमपि विश्रुतः ॥ 3-83-127(19575)
यथा च वृत्रहा सर्वान्सपत्नान्निर्दहन्पुरा।
त्रैलोक्यं पालयामास देवराड्विगतज्वरः ॥ 3-83-128(19576)
तथा शत्रुक्षयं कृत्वा त्वं प्रजाः पालयिष्यसि।
स्वधर्मविजितामुर्वीं प्राप्य राजीवलोचन।
ख्यातिं यास्यसि धर्मेण कार्तवीर्यार्जुनो यथा ॥ 3-83-129(19577)
वैशम्पायन उवाच। 3-83-130x(1992)
एवमाश्वास्य राजानं नारदो भगवानृषिः।
अनुज्ञाप्य महाराज तत्रैवान्तरधीयत ॥ 3-83-130(19578)
युधिष्ठिरोषि धर्मात्मा तमेवार्थं विचिन्तयन्।
तीर्थयात्राश्रितं पुण्यमृषीणां प्रत्यवेदयत् ॥ 3-83-131(19579)

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्तयात्रापर्वणि त्र्यशीतितमोऽध्यायः ॥ 83 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-83-4 अश्वमेधाद्दशगुणमिति क. पाठः ॥ 3-83-29 निदर्शनमुदाहरणम् ॥ 3-83-30 यो योनिसंकरजः स जेतत्र गायत्रीं पठति तस्य सम्यक् पठतोपितीर्थमाहात्म्यात्सा गायत्री गाथा स्वरनियमहीना गद्यवन्मुखान्निःसरति। गाथिका ग्राम्यगीतवत् स्वरवर्णविकृता ॥ 3-83-31 अब्राह्मणस्य तु प्राक्सिद्धापि तत्र न स्फुरतीति भावः ॥ 3-83-33 ततो बेण्णां समासाद्येति क. ध. पाठः ॥ 3-83-73 चक्रचराः सूर्यादयः ॥ 3-83-75 स्त्रीरूपायाः पृथिव्याः मेरुपृष्ठशीर्षाया हरिद्वारादरभ्य जघनं नाभेरधोभागः ॥ 3-83-77 नदी प्रोक्ता प्रजापतेरिति ध. पाठः ॥ 3-83-83 प्रयागगमनं प्रतीति क. पाठः ॥ 3-83-85 चातुर्वेद्ये च यत्पुण्यमिति क. पाठः ॥ 3-83-103 कैलासे सत्यलोके नाकपृष्ठे च मोदत इति क. पाठः ॥ 3-83-104 अगमानि अगम्यानि। समीक्षया दर्शनेच्छया ॥ 3-83-107 करणैः इन्द्रियैः ॥ 3-83-108 अकृतात्मा अवशीकृतचित्तः ॥ 3-83-114 प्रतिष्ठाने प्रयागे। प्रतिष्ठिता समाप्ता ॥ 3-83-124 महाभिषक् शन्तनुरूपेणावतीर्णः ॥ 3-83-126 रश्मिवान् सूर्यः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.